Sri Surya Ashtakam ( सूर्याष्टकम् ) in Sanskrit
Surya Ashtakam is a revered Sanskrit hymn consisting of eight verses dedicated to Lord Surya (the Sun God). It praises Surya as the giver of light, life, energy, and health — a remover of darkness, ignorance, and disease.

॥ सूर्याष्टकम् ॥
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर।दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते ॥1॥
सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम्। श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥2॥
लोहितं रथमारूढं सर्वलोकपितामहम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥3॥
त्रैगुण्यं च महाशूरं ब्रह्माविष्णुमहेश्वरम्। महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥4॥
बृंहितं तेजःपुञ्ज च वायुमाकाशमेव च। प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥5॥
बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम्। एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥6॥
तं सूर्यं जगत्कर्तारं महातेजः प्रदीपनम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥7॥
तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् ।महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥8॥
॥ इति श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णम् ॥