Aditya Hridaya Stotram in Sanskrit
Feb 28 2020 Tags: Navagraha, sanskrit, stotram, Sun, Surya
Aditya Hridaya Stotram is also known as Aditya Hridayam Stotram or Aditya Hrudayam stotram. Aditya Hridaya Stotram is a hymn associated with Aditya (Lord Surya, the Sun God) and was recited by the sage Agastya to Lord Ram on the battlefield before His duel with the demon king Ravan. By reciting this "blessing of blessings", Sage Agastya promises victory over all enemies, complete prosperity, purification from sin, anxiety, and grief, as well as the gifts of longevity and never-ending supreme bliss. The hymn also identifies Aditya with all other Hindu Gods, including Brahma, Vishnu, Shiva, and Skanda.
आदित्यहृदय स्तोत्रॐ अस्य आदित्य हृदयस्तोत्रस्यागस्त्यऋषिः अनुष्टुपछन्दः, आदित्येहृदयभूतो
भगवान ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः।
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्।
रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ।।1।।
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्।
उपगम्याब्रवीद् राममगरत्यो भगवांस्तदा ।।2।।
राम राम महाबाहो श्रृणु गुह्यं सनातनम्।
येन सर्वानरीन् वत्स समरे विजयिष्यसे ।।3।।
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्।
जयावहं जपं नित्यमक्षयं परमं शिवम् ।।4।।
सर्वमंगलमांगल्यं सर्वपापप्रणाशनम्।
चिन्ताशोकप्रशमन- मायुर्वर्धन-मुत्तमम् ।।5।।
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ।।6।।
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः।
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः ।।7।।
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ।।8।।
पितरो वसवः साध्या अश्विनौ मरुतो मनुः।
वायुर्वन्हिः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ।।9।।
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्।
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ।।10।।
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान्।
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान् ।।11।।
हिरण्यगर्भः शिशिरःस्तपनोऽहस्कारो रविः।
अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः ।।12।।
व्योमनाथस्तमोभेदी ऋम्यजुःसामपारगः।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ।।13।।
आतपी मण्डली मृत्युः पिंगलः सर्वतापनः।
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ।।14।।
नक्षत्रग्रहताराणामधिपो विश्वभावनः।
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ।।15।।
नमः पूर्वाय गिरये पश्चिमायाद्रये नमः।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ।।16।।
जयाय जयभद्राय हर्यश्वाय नमो नमः।
नमो नमः सहस्रांशो आदित्याय नमो नमः ।।17।।
नम उग्राय वीराय सारंगाय नमो नमः।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ।।18।।
ब्रह्मेशानाच्युतेशाय सुरायादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ।।19।।
तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ।।20।।
तप्तचामीकराभाय हरये विश्वकर्मणे।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ।।21।।
नाशयत्येष वै भूतं तमेष सृजति प्रभुः।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ।।22।।
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ।।23।।
देवाश्च क्रतवश्चैव क्रतूनां फलमेव च।
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः ।।24।।
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च।
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ।।25।।
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्।
एतत् त्रिगुणितं जप्तवा युद्धेषु विजयिष्यति ।।26।।
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि।
एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ।।27।।
एतच्छ्रुत्वा महातेजा, नष्टशोकोऽभवत् तदा।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ।।28।।
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान्।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ।।29।।
रावणं प्रेक्ष्य हृष्टात्मा जयार्थ समुपागमत्।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ।।30।।
अथ रविरवदन्निरीक्ष्यरामं मुदितनाः परमं प्रहृष्यमाणः।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ।।
Related Products
Related Posts
-
Yantras For Money and Prosperity
Every human being in world wants to enjoy prosperous and fulfilling lives. We all need economically, socially prosper...
-
108 Names of Maa Durga with meaning in Hindi
Maa Durga is the divine form of Shakti, the Supreme Goddess. Shakti is represented as the ultimate power and is worsh...
-
Various mantras related to Maa Kali
Maa Kali is the Hindu Goddess who removes the ego and liberates the soul from the cycle of birth and death. The Kali ...
-
Shri Kalabhairava Ashtakam in Kannada ( ಕಾಲ ಭೈರವ ಅಷ್ಟಕಂ ಕನ್ನಡದಲ್ಲಿ )
Shri Kalabhairava Ashtakam in Kannada || ಶ್ರೀ ಕಾಲಭೈರವಾಷ್ಟಕಮ್ || ಕಾಲ ಭೈರವ ಅಷ್ಟಕಂದೇವ ರಾಜ ಸೇವ್ಯ ಮಾನ ಪಾವನಂಗರಿ ಪಂಕಜಂವ್ಯಾಲ...
Share on Whatsapp