Shri Batuk Bhairav kavach in Sanskrit
Feb 08 2021 Tags: Bhairav, Kavach, sanskrit
Batuk Bhairava is child form of Lord Bhairava. Shri Batuk Bhairav kavach is super powerful, ultimate tool for protection and attainging prosperity. By chanting Shri Batuk Bhairav kavach regularly devotees can attain blessings of Lord Bhairava immediately and their desires are fulfilled. One should chant 1, 3, 7, 11 or 108 times daily as per his capacity , comfort and devotion.
श्री बटुक भैरव कवचम्
महादेव उवाच
प्रीयतां भैरवोदेव नमो वै भैरवाय च।
देवेशि देहरक्षार्थ कारणं कथ्यतां ध्रुवम्।।
मियन्ते साधका येन विना श्मशानभूमिषु।
रणेषु चातिघोरेषु महामृत्यु भयेषु च।।
श्रृंगी सलिलवज्रेषु ज्वरादिव्याधि यह्निषु ।।
देव्युवाच -
कथयामि श्रृणु प्राज्ञ बटुककवचं शुभम्।
गोपनीयं प्रयत्नेन मातृकाजारजो यथा।।
ॐ अस्य श्री बटुकभैरवकवचस्य आनन्द भैरव ऋषि: त्रिष्टुप्छंद: श्री बटुकभैरवो देवता बंवीजं ह्रीं शक्ति: ॐ बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः।
ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः।
पातु मां बटुकोदेवो भैरवः सर्वकर्मसु।।
पूर्वस्यां असितांगो मां दिशि रक्षतु सर्वदा ।
चाग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरव: । ।
नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे।
वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः।।
भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा ।
संहार भैरवः पायात् ईशान्यां च महेश्वरः ।।
ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।
सद्योजातस्तु मां पायात् सर्वतो देवसेवितः।।
वामदेयो बनान्ते च बने घोररतथाऽवतु।
जले तत्पुरुषा पातु स्थले ईशान एव च।।
डाकिनी पुत्रकः पातु पुत्रान् मे सर्वतः प्रभुः।
हाकिनी पुत्रकः पातु दारांस्तु लाकिनी सुतः।।
पातु शाकिनिकापुत्रः सैन्यं मे कालभैरवः ।
मालिनी पुत्रकःपातु पशूनश्यान् गजांस्तथा ।।
महाकालोऽक्षेत्रं श्रियं मे सर्वतो गिरा।
वाद्यं बाद्यप्रियः पातु भैरवो नित्यसम्पदा।।
एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।
नाख्येयं नरलोकेषु सारभूतं सुरप्रियम्।।
यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम्।
न देयं पर शिष्येभ्यः कृपणेभ्यश्च शंकर।।
यो ददाति निषिद्धेभ्यः सर्वभ्रप्ो भवेत्किल।
अनेन कवचेनैव रक्षां कृत्वा विचक्षणः।।
विरचरन्त्यत्र कुत्रापि न विघ्नैः परिभूयते।
मन्त्रेण रक्षिते योगी कवचं रक्षकं यतः।।
तरमात्सर्व प्रयत्नेन दुर्लभं पाप चेतसाम् ।
भुर्जे रंभात्वचि वापि लिखित्वा विधिवत्प्भो। ।
कुंकुमेनाप्टगन्धेन गोरोचनैश्च केशरैः।
धारयेत्पाठयेद्धपि संपठेद्वापि नित्यशः।।
सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा।
सततं पठ्यते यत्र तत्र भैरव संस्थितिः।।
न शक्नोमि प्रभावं वै कवचस्यास्यवर्णितुम्।
नमो भैरवदेवाय सर्वभूताय वै नमः।।
नमसैलोक्य नाथाय नाथनाथाय वै नमः ।।
।। इति बटुक भैरव तन्त्रोक्तं भैरवकवचम् ।।
Related Products
Related Posts
-
Yantras For Money and Prosperity
Every human being in world wants to enjoy prosperous and fulfilling lives. We all need economically, socially prosper...
-
108 Names of Maa Durga with meaning in Hindi
Maa Durga is the divine form of Shakti, the Supreme Goddess. Shakti is represented as the ultimate power and is worsh...
-
Various mantras related to Maa Kali
Maa Kali is the Hindu Goddess who removes the ego and liberates the soul from the cycle of birth and death. The Kali ...
-
Shri Kalabhairava Ashtakam in Kannada ( ಕಾಲ ಭೈರವ ಅಷ್ಟಕಂ ಕನ್ನಡದಲ್ಲಿ )
Shri Kalabhairava Ashtakam in Kannada || ಶ್ರೀ ಕಾಲಭೈರವಾಷ್ಟಕಮ್ || ಕಾಲ ಭೈರವ ಅಷ್ಟಕಂದೇವ ರಾಜ ಸೇವ್ಯ ಮಾನ ಪಾವನಂಗರಿ ಪಂಕಜಂವ್ಯಾಲ...
Share on Whatsapp