Shri Pradosha Strotra Ashtakam in Sanskrit (श्री प्रदोषस्तोत्राष्टकम् )

Sep 04 2022 Tags: Ashtakam, sanskrit, shiv, Shiva, Shivlinga, Shivratri, stotram

Shri Pradosha Strotra Ashtakam is mentioned in Skanda Purana . Pradosha kaal is period which starts just at the time of Sunset, and it lasts up to two Muhurtas or four Ghatis. Pradosh Kaal (time) is the most auspicious time to seek the blessings of Lord Shiva and Goddess Parvati. One who chants Shri Pradosha Strotra Ashtakam during Pradosha kaal will get constant growth in wealth, grains , property and happiness of their kids , its mentioned in ashtakam.

श्री प्रदोषस्तोत्राष्टकम्

श्री गणेशाय नमः 

सत्यं ब्रवीमि परलोकहितं ब्रवीमि सारं ब्रवीम्युपनिषद् हृदयं ब्रवीमि ।

संसारमुल्बणमसारमवाप्य जन्तो: सारोऽयमीश्वरपदाम्बुरुहस्य सेवा ॥ १ ॥

ये नाऽर्चयन्ति गिरिशं समये प्रदोषे ये नाऽर्चितं शिवमपि प्रणमन्ति चाऽन्ये ।

एतत् कथां श्रुतिपुटैर्न पिबन्ति मूढास्ते जन्म-जन्मसु भवन्ति नरा दरिद्राः ॥ २ ॥

ये वै प्रदोषसमये परमेश्वरस्य कुर्वन्त्यनन्य- मनसोऽङ्घ्रि- सरोजपूजाम् ।

नित्यं प्रवृद्ध-धन-धान्य-कलत्र-पुत्रसौभाग्य- सम्पदधिकास्त इहैव लोके ॥ ३ ॥

कैलासशैलभुवने त्रिजगज्जनित्रीं गौरीं निवेश्य कनकार्चितरलपीठे ।

नृत्यं विधातुमभिवाञ्छति शूलपाणौ देवाः प्रदोषसमये नु भजन्ति सर्वे ॥ ४ ॥

वाग्देवी धृतवल्लकी शतमुखो वेणुं दधत् पद्मज स्तालोन्निद्रकरो रमा भगवती गेयप्रयोगान्विता ।

विष्णुः सान्द्रमृदङ्गवादनपटुर्देवाः समन्तात् स्थिताः सेवन्ते तमनु प्रदोषसमये देवं मृडानीपतिम् ॥ ५ ॥

गन्धर्व-यक्ष- पतयोरग- सिद्ध- साध्यविद्याधरा-ऽमरवराप्सरसां गणांश्च ।

येऽन्ये त्रिलोकनिलयाः सहभूतवर्गाः प्राप्ये प्रदोषसमये हरपार्श्वसंस्थाः ॥ ६ ॥

अतः प्रदोषे शिव एक एव पूज्योऽथ नाऽन्ये हरिपद्मजाद्याः ।

तस्मिन् महेशे विधिनेज्यमाने सर्वे प्रसीदन्ति सुराधिनाथाः ॥ ७ ॥

एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः ।

प्रतिग्रहैर्वयो निन्ये न दानाद्यैः सुकर्मभिः ॥ ८ ॥

अतो दारिद्र्यमापन्नः पुत्रस्ते द्विजभामिनि ।

तद्दोषपरिहारार्थं शरणं यातु शङ्करम् ॥९॥

इति स्कन्दपुराणोक्तं प्रदोषस्तोत्राष्टकं सम्पूर्णम् ॥

 

Related Posts



← Older Posts Newer Posts →

Download our mobile app today !

To add this product to your wish list you must

Sign In or Create an Account

Back to the top
Global Shipping We deliver all around Globe
Easy Returns No questions asked 7 days return policy
Secure Checkout 100% Secure Payment Gateway
Paypal Accepted Pay for your orders through Paypal