Shri Dakshinamurthy Stotram in Sanskrit ( श्री दक्षिणामूर्ति स्तोत्रम् )
Jul 05 2017 Tags: Dakshinamurthy, sanskrit, Shiva, stotram
Shri Dakshinamurthy Stotram was composed by Sri Adi Shankaracharya. Shri Dakshinamurthy Stotram is addressed to a form of Lord Shiva known as Dakshinamurthy. Lord Dakshinamurthy is an aspect of the Hindu god Shiva as a guru (teacher) of all types of knowledge. This aspect of Shiva is his personification as the supreme or the ultimate awareness, understanding and knowledge. Shri Dakshinamurthy Stotram is sang in praise of Lord Shiva in the form of the Divine Teacher, where He is depicted as a young man, facing the South.
श्री दक्षिणामूर्ति स्तोत्रम्
ध्यानम्
मौनव्याख्या प्रकटित परब्रह्मतत्त्वं युवानं
वर्षिष्ठांते वसद् ऋषिगणौः आवृतं ब्रह्मनिष्ठैः ।
आचार्येन्द्रं करकलित चिन्मुद्रमानंदमूर्तिं
स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥
विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया ।
यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥१॥
बीजस्याऽन्तरिवाङ्कुरो जगदिदं प्राङ्गनिर्विकल्पं पुनः
मायाकल्पितदेशकालकलना वैचित्र्यचित्रीकृतम् ।
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥२॥
यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते
साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् ।
यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥३॥
नानाच्छिद्रघटोदरस्थितमहादी
ज्ञानं यस्य तु चक्षुरादिकरणद्वारा वहिः स्पन्दते ।
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत्
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥४॥
देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहम
मायाशक्तिविलासकल्पितमहाव्य
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥५॥
राहुग्रस्तदिवाकरेन्दुसदृशो
सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् ।
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥६॥
बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमि
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रयाभद्रया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥७॥
विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धतः
शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः ।
स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामितः
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥८॥
भूरम्भांस्यनलोऽनिलोऽम्बरमह
इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम्
नान्यत् किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥९॥
सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवे
तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः
सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥१०॥
॥ इति श्रीमच्छङ्कराचार्यविरचितं दक्षिणामुर्तिस्तोत्रं सम्पूर्णम् ॥
Related Products
Related Posts
-
Yantras For Money and Prosperity
Every human being in world wants to enjoy prosperous and fulfilling lives. We all need economically, socially prosper...
-
108 Names of Maa Durga with meaning in Hindi
Maa Durga is the divine form of Shakti, the Supreme Goddess. Shakti is represented as the ultimate power and is worsh...
-
Various mantras related to Maa Kali
Maa Kali is the Hindu Goddess who removes the ego and liberates the soul from the cycle of birth and death. The Kali ...
-
Shri Kalabhairava Ashtakam in Kannada ( ಕಾಲ ಭೈರವ ಅಷ್ಟಕಂ ಕನ್ನಡದಲ್ಲಿ )
Shri Kalabhairava Ashtakam in Kannada || ಶ್ರೀ ಕಾಲಭೈರವಾಷ್ಟಕಮ್ || ಕಾಲ ಭೈರವ ಅಷ್ಟಕಂದೇವ ರಾಜ ಸೇವ್ಯ ಮಾನ ಪಾವನಂಗರಿ ಪಂಕಜಂವ್ಯಾಲ...
Share on Whatsapp